Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

यः पूर्ववत् क्रियाकाले क्रियायास्तेन किं कृतम्। तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम्॥

एवं परवशं सर्वं यद्वशं सोऽपि चावशः। निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते॥

वारणापि न युक्तैवं कः किं वारयतीति चेत्। युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता॥

तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम्। ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत्॥

यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम्। न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति॥

प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः। भक्तच्छेदादिभिः कोपाद्दुरापस्त्र्यादिलिप्सया॥

उद्बन्धनप्रपातैश्च विषापथ्यादिभक्षणैः। निघ्नन्ति केचिदात्मानमपुण्याचरणेन च॥

कतिपयजनसत्त्रदायकः कुशलकृदित्यभिपूज्यते जनैः। क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात्॥

यदैवं क्लेशवश्यवाद् घ्नन्त्यात्मानमपि प्रियम्। तदैषां परकायेषु परिहारः कथं भवेत्॥

क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने। न केवलं दया नास्ति क्रोध उत्पद्यते कथम्॥

यदि स्वभावो बालानां परोपद्रवकारिता। तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके॥

अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः। तथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे॥

मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते। द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम्॥

मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता। तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः॥

तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम्। तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते॥

गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः। तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते॥

दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः। स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते॥

असिपत्रवनं यद्वद् यथा नारकपक्षिणः। मत्कर्मजनिता एव तथेदं कुत्र कुप्यते॥

किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः। गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणम्॥

मत्कर्मचोदिता एव जाता मय्यपकारिणः। येन यास्यन्ति नरकान्मयैवामी हता ननु॥