Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः।
तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम्॥

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः।
तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः॥

मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते।
क्षणात् क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः॥

न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम्।
अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम्॥

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः।
सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः॥

इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु।
हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत्॥

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः।
मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम॥

तस्मान्न तावदहमत्र धुरं क्षिपामि
यावन्न शत्रव इमे निहताः समक्षम्।
स्वल्पेऽपि तावदपकारिणि बद्धरोषा
मानोन्नतास्तमनिहत्य न यान्ति निद्राम्॥

प्रकृतिमरणदुःखितान्धकारान्। रणशिरसि प्रसभं निहन्तुमुग्राः।
अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा॥

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते।
तथा भेदोऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः॥

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य।
भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै॥

अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति।
महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि॥

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम्॥

दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे।
प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः॥

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा।
अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा॥

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही।
अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः॥

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे।
न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम्॥

निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात्।
यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु॥

क्वासौ यायान्मन्मनःस्थो निरस्तः
स्थित्वा यस्मिन् मद्वधार्थं यतेत।
नोद्योगो मे केवलं मन्दबुद्धेः
क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः॥

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता
नातोऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत्।
मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं
प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे॥