Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते। क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम्॥

अथाहमात्मदोषेण न करोमि क्षमामिह। मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते॥

यो हि येन विना नास्ति यस्मिंश्च सति विद्यते। स एव कारणं तस्य स कथं विघ्न उच्यते॥

न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना। न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते॥

सुलभा याचका लोके दुर्लभास्त्वपकारिणः। यतो मेऽनपराधस्य न कश्चिदपराध्यति॥

तच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानाम्। सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनाम्॥

अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः। बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम॥

मया चानेन चोपात्तं तस्मादेतत् क्षमाफलम्। एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः॥

क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः। सिद्धिहेतुरचित्तोऽपि सद्धर्मः पूज्यते कथम्॥

अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते। अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते॥

तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा। स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया॥

सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम्। एतानाराध्य बहवः संपत्पारं यतो गताः॥

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे। जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः॥

आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः। समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः॥

मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत्। बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत्॥

बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः। न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः॥

यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति। रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि॥

गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित्। दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम्॥

बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते। एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत्॥

किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम्। सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत्॥