Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

अथ यस्य मनः प्रसादमेति प्रसवेत् तस्य ततोऽधिकं फलम्। महता हि बलेन पापकं जिनपुत्रेषु शुभं त्वयत्नतः॥

मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्ये विमोहिताः। ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम्॥

कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः। सर्वे कर्मपरायत्ताः कोऽहमत्रान्यथाकृतौ॥

एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम्। येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम्॥

दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम्। तृणादौ यत्र सज्येत तदाकृष्यापनीयते॥

एवं चित्तं यदासङ्गाद्दह्यते द्वेषवह्निना। तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया॥

मारणीयः करं छित्त्वा मुक्तश्चेत्किमभद्रकम्। मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम्॥

यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते। तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते॥

कोपार्थमेवमेवाहं नरकेषु सहस्रशः। कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया॥

न चेदं तादृशं दुःखं महार्थं च करिष्यति। जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते॥

यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम्। मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि॥

तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नम्। यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि॥

इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम्। न वारितं च गुणिभिः परावर्जनमुत्तमम्॥

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम्। भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत्॥

स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि। कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि॥

बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया। स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि॥

त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किल वाञ्छसि। सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे॥

पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः। कुटुम्बजीविनं लब्ध्वा न हृष्यसि प्रकुप्यसि॥

स किं नेच्छसि सत्त्वानां यस्तेषां बोधिमिच्छति। बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति॥

यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे। सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम्॥