Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु।
मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान्॥

अहमेवापकार्येषां ममैते चोपकारिणः।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि॥

भवेन्ममाशयगुणो न यामि नरकान् यदि।
एषामत्र किमायातं यद्यात्मा रक्षितो मया॥

अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः।
हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः॥

मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित्।
शरीराभिनिवेशात्तु चित्तं दुःखेन बाध्यते॥

न्यक्कारः परुषं वाक्यमयशश्चेत्ययं गणः।
कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि॥

मय्यप्रसादो योऽन्येषां स मां किं भक्षयिष्यति।
इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः॥

लाभान्तरायकारित्वाद् यद्यसौ मेऽनभीप्सितः।
नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम्॥

वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम्।
यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव मे॥

इति सत्त्रपतौ जिनस्य पुत्रे
कलुषं स्वे हृदये करोति यश् च।
कलुषोदयसंख्यया स कल्पान्
नरकेष्वावसतीति नाथ आह॥

स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते।
मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते॥

ननु निवर्तते सौख्यं द्वयोरपि विबुद्धयोः।
सैवोपमा मृत्युकाले चिरजीव्यल्पजीविनोः॥

लब्ध्वापि च बहूंल्लाभान् चिरं भुक्त्वा सुखान्यपि।
रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा॥

पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत्।
पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु॥

यदर्थमेव जीवामि तदेव यदि नश्यति।
किं तेन जीवितेनापि केवलाशुभकारिणा॥

अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत्।
परायशस्करेऽप्येवं कोपस् ते किं न जायते॥

परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा।
क्लेशात्पादपरायत्ते क्षमा नावर्णवादिनि॥

प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च।
न युज्यते मम द्वेषो बुद्धादीनां न हि व्यथा॥

गुरुसालोहितादीनां प्रियाणां चापकारिषु।
पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत्॥

चेतनाचेतनकृता देहिनां नियता व्यथा।
सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः॥