Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

जगदानन्दबीजस्य जगद्दुःखौषधस्य च। चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयताम्॥

धर्मं निर्गौरवे स्वस्थे न शिरोवेष्टिते वदेत्। सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके॥

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना। हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत्॥

नोदारधर्मपात्रं च हीने धर्मे नियोजयेत्। न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत्॥

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम्। नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम्॥

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम्। प्रलम्बपादं नासीत न बाहू मर्दयेत्समम्॥

नैकयान्यस्त्रिया कुर्याद्यानं शयनमासनम्। लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत्॥

नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम्। समस्तेनैव हस्तेन मार्गमप्येवमादिशेत्॥

न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे। अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः॥

नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा। संप्रजानंल्लघूत्थानः प्रागवश्यं नियोगतः॥

आचारो बोधिसत्त्वानामप्रमेय उदाहृतः। चित्तशोधनमाचारं नियतं तावदाचरेत्॥

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते। किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात्॥

रात्रिंदिवं च त्रिस्कन्धं त्रिष्कालं च प्रवर्तयेत्। शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात्॥

या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा। तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः॥

न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः। न तदस्ति न यत्पुण्यमेवं विहरतः सतः॥

पारंपर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत्। सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत्॥

सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत्। बोधिसत्त्वव्रतधरं महायानार्थकोविदम्॥

श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम्। एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात्॥

शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत्। आकाशगर्भसूत्रे च मूलापत्तीर्निरूपयेत्॥

शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः। विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः॥