Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

आदाय बुद्ध्या मुनिपुंगवेभ्यो
निर्यातयाम्येष सपुत्रकेभ्यः।
गृह्णन्तु तन्मे वरदक्षिणीया
महाकृपा मामनुकम्पमानाः॥

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्योऽप्यनेकशः।
कल्पकोटीरसंख्येया न च बोधिर्भविष्यति॥

इदं तु मे परिमितं दुःखं संबोधिसाधनम्।
नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत्॥

सर्वेऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम्।
तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम्॥

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान्।
मधुरेणोपचारेण चिकित्सति महातुरान्॥

आदौ शाकादिदानेऽपि नियोजयति नायकः।
तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत्॥

यदा शाकेष्विव प्रज्ञा स्वमांसेऽप्युपजायते।
मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम्॥

न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः।
मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा॥

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि।
तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते॥

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान्।
बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः॥

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः।
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम्॥

अपुण्यवानस्मि महादरिद्रः
पूजार्थमन्यन्मम नास्ति किंचित्।
अतो ममार्थाय परार्थचित्ता
गृह्णन्तु नाथा इदमात्मशक्त्या॥

छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये।
छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन्॥

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये।
छन्दमानरतित्यागतात्पर्यवशिताबलैः॥

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः।
एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः॥

तत्र दोषक्षयारम्भे लेशोऽपि मम नेक्ष्यते।
अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम्॥

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः।
तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा॥

गुणलेशेऽपि नाभ्यासो मम जातः कदाचन।
वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम्॥

न प्राप्तं भगवत्पूजामहोत्सवसुखं मया।
न कृता शासने कारा दरिद्राशा न पूरिता॥

भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः।
दुःखाय केवलं मातुर्गतोऽस्मि गर्भशल्यताम्॥