Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

जगन्मृत्युविनाशाय जातमेतद्रसायनम्।
जगद्दारिद्र्यशमनं निधानमिदमक्षयम्॥

जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमम्।
भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः॥

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम्।
जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः॥

जगदज्ञानतिमिरप्रोत्सारणमहारविः।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम्॥

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः।
सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम्॥

कदलीव फलं विहाय याति
क्षयमन्यत् कुशलं हि सर्वमेव।
सततं फलति क्षयं न याति
प्रसवत्येव तु बोधिचित्तवृक्षः॥

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः॥

इति बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः॥

बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः।

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः॥

सहसा यत्समारब्धं सम्यग् यदविचारितम्।
तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते॥

विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः।
मयापि च यथाशक्ति तत्र किं परिलम्ब्यते॥

यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा।
एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति॥

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः।
स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि॥

किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः।
जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति॥

वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम्।
यद्बोधिचित्तत्यागेऽपि मोचयत्येवं तां नरान्॥

कृत्वापि पापानि सुदारुणानि
यदाश्रयादुत्तरति क्षणेन।
शूराश्रयेणेव महाभयानि
नाश्रीयते तत्कथमज्ञसत्त्वैः॥

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी।
यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत्॥

योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति।
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः॥

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत्।
अशेषाकाशपर्यन्तवासिनां किमु देहिनाम्॥