Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते। आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना॥

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया। संसारदुःखानुद्वेगादालस्यमुपजायते॥

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम्। किमद्यापि न जानासि मृत्योर्वदनमागतः॥

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि। तथापि निद्रां यास्येव चण्डालमहिषो यथा॥

यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः। कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः॥

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति। संत्यज्यापि तदालस्यमकाले किं करिष्यसि॥

इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम्। अकस्मान्मृत्युरायातो हा हतोऽस्मीति चिन्तयन्॥

शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान्। बन्धून्निराशान् संपश्यन् यमदूतमुखानि च॥

स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान्। त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि॥

अकृष्टजातानि च शस्यजाता- न्यन्यानि वा पूज्यविभूषणानि। आकाशधातुप्रसरावधीनि सर्वाण्यपीमान्यपरिग्रहाणि॥

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते। किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः॥

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे। कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते॥

निरुद्यम फलाकाङ्क्षिन् सुकुमार बहुव्यथ। मृत्युग्रस्तोऽमराकार हा दुःखित विहन्यसे॥

मानुष्यं नावमासाद्य तर दुःखमहानदीम्। मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः॥

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम्। रतिरौद्धत्यहास्यादौ दुःखहेतौ कथं तव॥

अविषादबलव्यूहतात्पर्यात्मविधेयता। परात्मसमता चैव परात्मपरिवर्तनम्॥

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः। यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान्॥

तेऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा। यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा॥

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम्। सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम्॥

अथापि हस्तपादादि दातव्यमिति मे भयम्। गुरुलाघवमूढत्वं तन्मे स्यादविचारतः॥