Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

भिन्दन्ति देहं प्रविशन्त्यवीचिं येषां कृते तत्र कृते कृतं स्यात्।
महापकारिष्वपि तेन सर्वं कल्याणमेवाचरणीयमेषु॥

स्वयं मम स्वामिन एव तावद्यदर्थमात्मन्यपि निर्व्यपेक्षाः।
अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम्॥

येषां सुखे यान्ति मुदं मुनीन्द्राः येषां व्यथायां प्रविशन्ति मन्युम्।
तत्तोषणात्सर्वमुनीन्द्रतुष्टिः तत्रापकारेऽपकृतं मुनीनाम्॥

आदीप्तकायस्य यथा समन्तान्न सर्वकामैरपि सौमनस्यम्।
सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायोऽस्ति दयामयानाम्॥

तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम्।
तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम्॥

आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके।
कुर्वन्तु मे मूर्घ्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः॥

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति।
दृश्यन्त एते ननु सत्त्वरूपास्त एव नाथाः किमनादरोऽत्र॥

महीधरा रत्नमयास्तथान्ये
वनप्रदेशाश्च विवेकरम्याः।
लताः सपुष्पाभरणोज्ज्वलाश्च
द्रुमाश्च ये सत्फलनम्रशाखाः॥

तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव।
लोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव॥

यथैको राजपुरुषः प्रमन्थाति महाजनम्।
विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः॥

यस्मान्नैव स एकाकी तस्य राजबलं बलम्।
तथा न दुर्बलं कंचिदपराद्धं विमानयेत्॥

यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम्।
तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा॥

कुपितः किं नृपतिर्दद्याद्येन स्यान्नरकव्यथा।
यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते॥

तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत्।
यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते॥

आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम्।
इहैव सौभाग्ययशःसौस्थित्यं किं न पश्यसि॥

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम्।
चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन्॥

इति क्षान्तिपारमिता नाम षष्ठः परिच्छेदः॥

वीर्यपारमिता नाम सप्तमः परिच्छेदः।

देवादिलोकेषु च गन्धधूपाः
कल्पद्रुमा रत्नमयाश्च वृक्षाः।
सरांसि चाम्भोरुहभूषणानि
हंसस्वनात्यन्तमनोहराणि॥

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता।
न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः॥