Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

संप्रजन्यं तदायाति न च यात्यागतं पुनः।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते॥

पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम्।
निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा॥

निष्फला नेत्रविक्षेपा न कर्तव्याः कदाचन।
निध्यायन्तीव सततं कार्या दृष्टिरधोगता॥

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन।
आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत्॥

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम्।
दिशो विश्रम्य वीक्षेत परावृत्यैव पृष्ठतः॥

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन्।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः॥

सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत्॥

कायेनैवमवस्थेयम् इत्याक्षिप्य क्रियां पुनः।
कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा॥

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा।
धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते॥

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा॥

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम्।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम्॥

यद् बुद्ध्वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत्।
तदेव तावन् निष्पाद्यं तद्गतेनान्तरात्मना॥

एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत्।
असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति॥

नानाविधप्रलापेषु वर्तमानेष्वनेकधा।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम्॥

मृन्मर्दनतृणच्छेदरेखाद्यफलमागतम्।
स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत्॥

यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत्।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत्॥

किमुताप्रतिमं शूलम् एकैकस्य जिहीर्षतः।
अप्रमेयगुणं सत्त्वम् एकैकं च चिकीर्षतः॥

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा॥

उद्धतं सोपहासं वा यदा मानमदान्वितम्।
सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत्॥

यदात्मोत्कर्षणाभासं परपंसनमेव वा।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा॥