Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

एवमापत्तिबलतो बोधिचित्तबलेन च। दोलायमानः संसारे भूमिप्राप्तौ चिरायते॥

तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात्। नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः॥

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः। नैषामहं स्वदोषेण चिकित्सागोचरं गतः॥

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः। दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम्॥

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च। कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽतिदुर्लभम्॥

आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम्। आयुःक्षणं विसंवादि कायोपाचितकोपमः॥

न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः। अलभ्यमाने मानुष्ये पापमेव कुतः शुभम्॥

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन। यस्यानुशंसान् अमितानुवाच मैत्रेयनाथः सुधनाय धीमान्॥

यदा कुशलयोग्योऽपि कुशलं न करोम्यहम्। अपायदुःखैः संमूढः किं करिष्याम्यहं तदा॥

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः। हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि॥

अत एवाह भगवान्-मानुष्यमतिदुर्लभम्। महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्॥

एकक्षणकृतात् पापादवीचौ कल्पमास्यते। अनादिकालोपचितात् पापात् का सुगतौ कथा॥

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते। तस्मात्तद्वेदयन्नेव पापमन्यत् प्रसूयते॥

नातः परा वञ्चनास्ति न च मोहोऽस्त्यतः परः। यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया॥

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः। शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः॥

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः। पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम्॥

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम्। जानन्नपि च नीयेऽहं तानेव नरकान् पुनः॥

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः। न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति॥

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः। बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च॥

हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः। न शूरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः॥