Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ।
लभमानो न गृह्णातु वद केन न कुप्यसि॥

न केवलं त्वमात्मानं कृतपापं न शोचसि।
कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि॥

इति बोधिचित्तानुशंसाविवरणं नाम प्रथमः परिच्छेदः॥

जातं चेदप्रियं शत्रोस्त्वत्तुष्ट्या किं पुनर्भवेत्।
त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति॥

अथ त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव।
अथाप्यर्थो भवेदेवमनर्थः को न्वतः परः॥

एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम्।
यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु॥

स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे।
न बलार्थं न चारोग्ये न च कायसुखाय मे॥

एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः।
मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता॥

यशोर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि।
किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम्॥

यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः।
तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे॥

शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः।
परः किल मयि प्रीत इत्येतत्प्रीतिकारणम्॥

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया।
तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः॥

तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत्।
कस्मादन्यप्रसादेन सुखितेषु न मे सुखम्॥

न हि किंचिदपूर्वमत्र वाच्यं
न च संग्रथनकौशलं ममास्ति।
अत एव न मे परार्थचिन्ता
स्वमनो वासयितुं कृतं मयेदम्॥

पापदेशना नाम द्वितीयः परिच्छेदः।

तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते।
तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम्॥

स्तुत्यादयश्च मे क्षेमं संवेगं नाशयन्त्यमी।
गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते॥

तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः।
अपायपातरक्षार्थं प्रवृत्ता ननु ते मम॥

मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम्।
ये मोचयन्ति मां बन्धाद्द्वेषस्तेषु कथं मम॥

दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः।
बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम॥