Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः। दुःखेनैव च निःसारः चेतस्तस्माद् दृढीभव॥

दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम्। वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः॥

न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम्। तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा॥

उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम्। महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि॥

शीतोष्णवृष्टिवाताध्वव्याधिबन्धनताडनैः। सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा॥

नाशयत्यपि संमोहं साधुस्तेन समः कुतः। कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः॥

केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः। परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत्॥

तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम्। दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्व्यथाम्॥

दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद् बुधः। संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा॥

उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन्। ते ते विजयिनः शूराः शेषास्तु मृतमारकाः॥

गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः। संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा॥

पित्तादिषु न मे कोपो महादुःखकरेष्वपि। सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः॥

अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा। अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा॥

कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः। उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च॥

ये केचिदपराधाश्च पापानि विविधानि च। सर्वं तत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते॥

न च प्रत्ययसामग्र्या जनयामीति चेतना। न चापि जनितस्यास्ति जनितोऽस्मीति चेतना॥

कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते। अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यताम्॥

यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम्। तदेव हि भवाभीति न संचिन्त्योपजायते॥

अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा। विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते॥

नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः। प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया॥