Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

संक्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम्।
आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः॥

यतो निवार्यते यत्र यदेव च नियुज्यते।
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत्॥

बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।
ओम् नमो बुद्धाय ॥

सुगतान् ससुतान् सधर्मकायान्
प्रणिपत्यादरतोऽखिलांश्च वन्द्यान्।
सुगतात्मजसंवरावतारं
कथयिष्यामि यथागमं समासात्॥

दुःखम् एवाभिधावन्ति दुःखनिःसरणाशया।
सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत्॥

एतदेव समासेन संप्रजन्यस्य लक्षणम्।
यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः॥

कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत्।
चिकित्सापाठमात्रेण रोगिणः किं भविष्यति॥

इति संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः॥

६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः।

सर्वमेतत्सुचरितं दानं सुगतपूजनम्।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत्॥

न च द्वेषसमं पापं न च क्षान्तिसमं तपः।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥

मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते॥

पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः।
तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम्॥

सुहृदोऽप्युद्विजन्तेऽस्माद् ददाति न च सेव्यते।
संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः॥

एवमादीनि दुःखानि करोतीत्यरिसंज्ञया।
यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च॥

यस्तेषां सुखरङ्काणां पीडितानामनेकशः।
तृप्तिं सर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च॥

अनिष्टकरणाज्जातमिष्टस्य च विघातनात्।
दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम्॥

तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः।
यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः॥

अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया।
दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते॥

यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम्।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम्॥

दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम्।
प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात्॥