Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।

भवदुःखशतानि तर्तुकामै-
रपि सत्त्वव्यसनानि हर्तुकामैः।
बहुसौख्यशतानि भोक्तुकामै-
र्न विमोच्यं हि सदैव बोधिचित्तम्॥

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम्।
येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः॥

जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः॥

इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम्॥

मया बालेन मूढेन यत्किंचित्पापमाचितम्।
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च॥

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।
न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया॥

इति पापदेशना नाम द्वितीयः परिच्छेदः॥

बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः।

अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम्।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥

संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम्।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥

भवचारकबन्धनो वराकः
सुगतानां सुत उच्यते क्षणेन।
सनरामरलोकवन्दनीयो
भवति स्मोदित एव बोधिचित्ते॥

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः।
कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत्॥

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम्।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च।
तदुपस्थायकश्चैव यावद्रोगापुनर्भवः॥

क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम्॥

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः॥