Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम्।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये॥

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः।
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयताम्॥

यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम्।
घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः॥

अशुचिप्रतिमामिमां गृहीत्वा
जिनरत्नप्रतिमां करोत्यनर्घाम्।
रसजातमतीव वेधनीयं
सुदृढं गृह्णत बोधिचित्तसंज्ञम्॥

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च।
दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया॥

कारयन्तु च कर्माणि यानि तेषां सुखावहम्।
अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन॥

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत्।
तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये॥

अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः।
उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः॥

अनाथानामहं नाथः सार्थवाहश्च यायिनाम्।
पारेप्सूनां च नौभूतः सेतुः संक्रम एव च॥

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम्।
दासार्थिनामहं दासो भवेयं सर्वदेहिनाम्॥

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम्॥

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम्।
सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा॥

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा।
भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः॥

यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः॥

सुपरीक्षितम् अप्रमेयधीभि-
र्बहुमूल्यं जगदेकसार्थवाहैः।
गतिपत्तनविप्रवासशीलाः
सुदृढं गृह्णत बोधिचित्तरत्नम्॥

तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते।
तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम्॥

एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः।
पुनः पृष्टस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत्॥

अद्य मे सफलं जन्म सुलब्धो मानुषो भवः।
अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि सांप्रतम्॥

तथाधुना मया कार्यं स्वकुलोचितकारिणाम्।
निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा॥

अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात्।
तथा कथंचिदप्येतद् बोधिचित्तं ममोदितम्॥