Property:SanskritSource

From Bodhicitta

This is a property of type Text.

Showing 20 pages using this property.
0

दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना। न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते॥

काये नौबुद्धिमाधाय गत्यागमननिश्रयात्॥ यथाकामंगमं कायं कुरु सत्त्वार्थसिद्धये॥

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत्। त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहृत्॥

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत्। नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा॥

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन्। प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत्॥

परचोदनदक्षाणामनधीष्टोपकारिणाम्। प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत्॥

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत्। पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत्॥

परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः। स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम्॥

सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा। भोक्ष्ये तुष्टिमुखं तस्मात्परश्रमकृतैर्गुणैः॥

सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथम्। यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते॥

न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम्। अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च॥

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम्। श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत्॥

ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव। एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति॥

सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च। गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम्॥

दक्ष उत्थानसंपन्नः स्वयंकारी सदा भवेत्। नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु॥

उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः। नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः॥

एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः। निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः॥

विनिपातगतानाथव्रतस्थान् संविभज्य च। भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत्॥

सद्धर्मसेवकं कायमितरार्थं न पीडयेत्। एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत्॥

त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये। तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते॥