Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः।
उपस्थानार्थे मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥

परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा।
वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥

असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा।
स्वपक्षाभिनिविष्टं च तस्मात्तिष्ठामि काष्ठवत्॥

एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः।
निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा॥

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम्।
सलज्जं सभयं शान्तं पराराधनतत्परम्॥

परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम्।
क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम्॥

आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु।
निर्माणमिव निर्मानं धारयाम्येष मानसम्॥

कस्य मातुः पितुर्वापि हिताशंसेयम् ईदृशी।
देवतानाम् ऋषीणां वा ब्रह्मणां वा भविष्यति॥

चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः।
धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत्॥

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम्॥

रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम्।
त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः॥

न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम्।
अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम्॥

इमं चर्मपुटं तावत्स्वबुद्ध्यैव पृथक्कुरु।
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥

अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः।
किमत्र सारमस्तीति स्वयमेव विचारय॥

एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते।
अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि॥

न खादितव्यमशुचि त्वया पेयं न शोणितम्।
नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि॥

युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम्।
कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम्॥

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः।
कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि॥

तेषाम् एव च सत्त्वानां स्वार्थेऽप्येष मनोरथः।
नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः॥

न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते।
कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम्॥