Property:SanskritSource
From Bodhicitta
This is a property of type Text.
0

सहापि वाक्शरीराभ्यां मन्दवृत्तेर्न तत्फलम्।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम्॥

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित्॥

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे।
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम्॥

ततःप्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः॥

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम्।
चित्तरक्षाव्रतं मुक्त्त्वा बहुभिः किं मम व्रतैः॥

यथा चपलमध्यस्थो रक्षति व्रणमादरात्।
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा॥

व्रणदुःखलवाद्भीतो रक्षामि व्रणमादरात्।
संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम्॥

अनेन हि विहारेण विहरन् दुर्जनेष्वपि।
प्रमदाजनमध्येऽपि यतिर्धीरो न खण्ड्यते॥

लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम्।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन॥

चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत॥

व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु।
तथाभ्यां विकलं चित्तं न क्षमं सर्वकर्मसु॥

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम्।
सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते॥

अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः॥

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम्॥

इदं सुबाहुपृच्छायां सोपपत्तिकम् उक्तवान्।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः॥

क्लेशतस्करसंघोऽयमवतारगवेषकः।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम्॥

तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन।
गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम्॥

उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम्।
धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः॥

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः।
सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः॥

इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः॥